६.१०९.२२

ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥

पदच्छेदः

ततःततस् (अव्ययः)
काञ्चनचित्राङ्गंकाञ्चन–चित्र–अङ्ग (२.१)
वैदूर्यमणिवेदिकम्वैडूर्य–मणि–वेदिक (२.१)
कूटागारैःकूटागार (३.३)
परिक्षिप्तंपरिक्षिप्त (√परि-क्षिप् + क्त, २.१)
सर्वतोसर्व (५.१)
रजतप्रभम्रजत–प्रभा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः काञ्च चि त्रा ङ्गं
वै दूर्यणि वेदि कम्
कू टा गा रैः रि क्षि प्तं
र्व तोप्र भम्