६.११२.१२

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ।
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।
यथा च दीपिता लङ्का प्रहृष्टैर्हरियूथपैः ॥

पदच्छेदः

मार्गणंमार्गण (१.१)
चैव (अव्ययः)–एव (अव्ययः)
वैदेह्याःवैदेही (६.१)
कर्मकर्मन् (१.१)
वातात्मजस्यवातात्मज (६.१)
(अव्ययः)
विदितायांविदित (√विद् + क्त, ७.१)
(अव्ययः)
वैदेह्यांवैदेही (७.१)
नलसेतुर्नलसेतु (१.१)
यथायथा (अव्ययः)
कृतःकृत (√कृ + क्त, १.१)
यथायथा (अव्ययः)
(अव्ययः)
दीपितादीपित (√दीपय् + क्त, १.१)
लङ्कालङ्का (१.१)
प्रहृष्टैर्प्रहृष्ट (√प्र-हृष् + क्त, ३.३)
हरियूथपैःहरि–यूथप (३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
मार्ग णं चै वै दे ह्याःर्म वा ता
त्मस्यविदि ता यां वै दे ह्यां
से तुर्य थाकृ तः था दी
पि ता ङ्काप्र हृ ष्टैर्हरि यू पैः