६.११२.१३

सपुत्रबान्धवामात्यः सबलः सह वाहनः ।
यथा च निहतः संख्ये रावणो देवकण्टकः ॥

पदच्छेदः

सपुत्रबान्धवामात्यः (अव्ययः)–पुत्र–बान्धव–अमात्य (१.१)
सबलः (अव्ययः)–बल (१.१)
सहवाहनःसह (अव्ययः)–वाहन (१.१)
यथायथा (अव्ययः)
(अव्ययः)
निहतःनिहत (√नि-हन् + क्त, १.१)
संख्येसंख्य (७.१)
रावणोरावण (१.१)
देवकण्टकःदेव–कण्टक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुत्र बान्ध वा मा त्यः
लः वा नः
थानि तः सं ख्ये
रा णो देण्ट कः