६.११२.१८

निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः ।
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ॥

अन्वयः

तदा then, गच्छताम् proceeding, तिस्त्रः three, योजनाः yojanas, सर्वतः all sides, नगाः trees, निष्फलाः that did not have fruits, फलिनश्च started bearing fruits, विपुष्पाः which had no blossoms, पुष्पशालिनः full of blossoms, शुष्काः dried, समग्रपत्राश्च filled with leaves, मधुस्रवाः shed honey, अभवन् became

Summary

"Then while we were proceeding for three yojanas on all sides the trees that did not have fruits started bearing fruits, trees that did not have blossoms started having blossoms and the trees that dried up developed leaves and began to shed honey."

पदच्छेदः

निष्फलाःनिष्फल (१.३)
फलिनश्चासन्फलिन् (१.३)–च (अव्ययः)–आसन् (√अस् लङ् प्र.पु. बहु.)
विपुष्पाःविपुष्प (१.३)
पुष्पशालिनःपुष्प–शालिन् (१.३)
शुष्काःशुष्क (१.३)
समग्रपत्रास्तेसमग्र–पत्त्र (१.३)–तद् (१.३)
नगाश्चैवनग (१.३)–च (अव्ययः)–एव (अव्ययः)
मधुस्रवाःमधु–स्रव (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निष्फ लाःलि श्चा
न्वि पु ष्पाः पुष्प शालि नः
शु ष्काःग्र त्रा स्ते
गा श्चै धुस्र वाः