६.११२.१७

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥

अन्वयः

भगवन् divine sage, सर्वेचापि all, वृक्षाः trees, अकालफलिनः unseasonal fruits, मधुस्रवाः sweet and juicy, भवन्तु you, अमृतगन्धीनि tasting like nectar, बहूनि many, विविधानि च several kinds, फलानि fruits, अयोध्यांप्रति in Ayodhya, गच्छतः proceeding, मार्गे way

Summary

"O divine sage! Let all the trees bear fruits out of season of several kinds of many sweet and juicy, tasting nectar appear on our way as we proceed to Ayodhya."

पदच्छेदः

अकालफलिनोअकाल–फलिन् (१.३)
वृक्षाःवृक्ष (१.३)
सर्वेसर्व (१.३)
चापि (अव्ययः)–अपि (अव्ययः)
मधुस्रवाःमधु–स्रव (१.३)
भवन्तुभवन्तु (√भू लोट् प्र.पु. बहु.)
मार्गेमार्ग (७.१)
भगवन्न्भगवत् (८.१)
अयोध्यांअयोध्या (२.१)
प्रतिप्रति (अव्ययः)
गच्छतःगच्छत् (√गम् + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कालि नो वृ क्षाः
र्वे चापि धुस्र वाः
न्तु मा र्गे
न्न यो ध्यांप्रतिच्छ तः