६.११२.६

पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।
स्वर्गभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् ॥

पदच्छेदः

पदातिंपदाति (२.१)
त्यक्तसर्वस्वंत्यक्त (√त्यज् + क्त)–सर्व–स्व (२.१)
पितुर्पितृ (६.१)
वचनकारिणम्वचन–कारिन् (२.१)
स्वर्गभोगैःस्वर्ग–भोग (३.३)
परित्यक्तंपरित्यक्त (√परि-त्यज् + क्त, २.१)
स्वर्गच्युतम्स्वर्ग–च्युत (√च्यु + क्त, २.१)
इवामरम्इव (अव्ययः)–अमर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा तिं त्यक्त र्व स्वं
पि तुर्व कारि णम्
स्वर्ग भो गैः रि त्य क्तं
स्व र्गच्युमि वा रम्