६.११२.५

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् ॥

पदच्छेदः

त्वांत्वद् (२.१)
पुरापुरा (अव्ययः)
चीरवसनंचीर–वसन (२.१)
प्रविशन्तंप्रविशत् (√प्र-विश् + शतृ, २.१)
महावनम्महत्–वन (२.१)
स्त्रीतृतीयंस्त्री–तृतीय (२.१)
च्युतंच्युत (√च्यु + क्त, २.१)
राज्याद्राज्य (५.१)
धर्मकामंधर्म–काम (२.१)
(अव्ययः)
केवलम्केवलम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वांपु रा ची नं
प्रवि न्तं हा नम्
स्त्रीतृ ती यंच्यु तं रा ज्या
द्धर्म का मं के लम्