६.११३.२७

जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ।
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥

पदच्छेदः

जटिलंजटिल (२.१)
मलदिग्धाङ्गंमल–दिग्ध (√दिह् + क्त)–अङ्ग (२.१)
भ्रातृव्यसनकर्शितम्भ्रातृ–व्यसन–कर्शित (√कर्शय् + क्त, २.१)
फलमूलाशिनंफल–मूल–आशिन् (२.१)
दान्तंदान्त (√दम् + क्त, २.१)
तापसंतापस (२.१)
धर्मचारिणम्धर्म–चारिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

टि लं दि ग्धा ङ्गं
भ्रा तृव्यर्शि तम्
मू लाशि नं दा न्तं
ता संर्म चारि णम्