६.११३.२८

समुन्नतजटाभारं वल्कलाजिनवाससं ।
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं ॥

पदच्छेदः

समुन्नतजटाभारंसमुन्नत (√समुत्-नम् + क्त)–जटा–भार (२.१)
वल्कलाजिनवाससंवल्कल–अजिन–वासस् (२.१)
नियतंनियत (√नि-यम् + क्त, २.१)
भावितात्मानंभावित (√भावय् + क्त)–आत्मन् (२.१)
ब्रह्मर्षिसमतेजसंब्रह्मर्षि–सम–तेजस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मुन्न टा भा रं
ल्क लाजि वा सं
नि तं भावि ता त्मा नं
ब्र ह्मर्षि ते सं