६.११५.१६

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ।
प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ॥

पदच्छेदः

भ्रातुर्भ्रातृ (६.१)
आगमनंआगमन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तत्तद् (२.१)
पूर्वंपूर्वम् (अव्ययः)
हर्षम्हर्ष (२.१)
आगतःआगत (√आ-गम् + क्त, १.१)
प्रत्युद्ययौप्रत्युद्ययौ (√प्रत्युत्-या लिट् प्र.पु. एक.)
तदातदा (अव्ययः)
रामंराम (२.१)
महात्मामहात्मन् (१.१)
सचिवैःसचिव (३.३)
सहसह (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भ्रातु रा नं श्रु त्वा
त्पू र्वंर्ष मा तः
प्र त्युद्य यौ दा रा मं
हा त्माचि वैः