६.१५.२

स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः ।
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः ॥

पदच्छेदः

स्निग्धवैदूर्यसंकाशोस्निग्ध–वैडूर्य–संकाश (१.१)
जाम्बूनदविभूषितःजाम्बूनद–विभूषित (√वि-भूषय् + क्त, १.१)
रक्तमाल्याम्बरधरःरक्त–माल्य–अम्बर–धर (१.१)
पद्मपत्रनिभेक्षणःपद्म–पत्त्र–निभ–ईक्षण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्निग्ध वै दूर्य सं का शो
जा म्बूवि भूषि तः
क्त मा ल्याम्ब रः
द्मत्रनि भेक्ष णः