६.१६.२४

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ।
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥

पदच्छेदः

एकस्थानगताएक–स्थान–गत (√गम् + क्त, १.३)
यत्रयत्र (अव्ययः)
चत्वारःचतुर् (१.३)
पुरुषर्षभाःपुरुष–ऋषभ (१.३)
लोकपालोपमाःलोकपाल–उपम (१.३)
शूराःशूर (१.३)
कृतास्त्राकृतास्त्र (१.३)
दृढविक्रमाःदृढ–विक्रम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्था तात्र
त्वा रःपुरुर्ष भाः
लो पा लो माः शू राः
कृ ता स्त्रादृ विक्र माः