६.१६.२६

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ।
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ॥

पदच्छेदः

एतेएतद् (१.३)
शक्ताःशक्त (√शक् + क्त, १.३)
पुरींपुरी (२.१)
लङ्कांलङ्का (२.१)
सप्राकारां (अव्ययः)–प्राकार (२.१)
सतोरणाम् (अव्ययः)–तोरण (२.१)
उत्पाट्यउत्पाट्य (√उत्-पाटय् + ल्यप्)
संक्रामयितुंसंक्रामयितुम् (√सम्-क्रामय् + तुमुन्)
सर्वेसर्व (१.३)
तिष्ठन्तुतिष्ठन्तु (√स्था लोट् प्र.पु. बहु.)
वानराःवानर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते क्ताःपु रीं ङ्कां
प्रा का रां तो णाम्
त्पाट्य सं क्रायि तुं
र्वे ति ष्ठन्तु वा राः