६.१७.२९

महाबलो वीतभयो रम्यं साल्वेय पर्वतम् ।
राजन्सततमध्यास्ते शरभो नाम यूथपः ॥

पदच्छेदः

महाबलोमहत्–बल (१.१)
वीतभयोवीत (√वि-इ + क्त)–भय (१.१)
रम्यंरम्य (२.१)
साल्वेयपर्वतम्शाल्वेय–पर्वत (२.१)
राजन्राजन् (८.१)
सततम्सततम् (अव्ययः)
अध्यास्तेअध्यास्ते (√अधि-आस् लट् प्र.पु. एक.)
शरभोशरभ (१.१)
नामनाम (अव्ययः)
यूथपःयूथप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हा लो वी यो
म्यं सा ल्वेर्व तम्
रान्स ध्या स्ते
भो ना यू पः