६.१७.३६

एष दर्दरसंकाशो विनतो नाम यूथपः ।
पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ॥

पदच्छेदः

एषएतद् (१.१)
दर्दरसंकाशोदर्दर–संकाश (१.१)
विनतोविनत (१.१)
नामनाम (अव्ययः)
यूथपःयूथप (१.१)
पिबंश्चरतिपिबत् (√पा + शतृ, १.१)–चरति (√चर् लट् प्र.पु. एक.)
पर्णाशांपर्णाशा (२.१)
नदीनाम्नदी (६.३)
उत्तमांउत्तम (२.१)
नदीम्नदी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्द सं का शो
वि तो ना यू पः
पि बंश्चति र्णा शां
दी ना मुत्त मां दीम्