६.१७.३५

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ।
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥

अन्वयः

यः he who, समुद्रस्य: ocean's, तीरे: shore, द्वितीयः second, सागरःइव: like the ocean, स्थिताम् stationed, भीमाम् terrifying, प्रवल्गन्तीम् fluttering, चमूम् division of army, शोभयन् charm, तिष्ठतिएषः in that way stationed, दुर्दरसङ्काशः resembling Dardura mountain, विनतोनाम: known as Vinata, यूथपः leader, यः he who, नदीनाम् among the rivers, उत्तमाम् best, पर्णासां: Parnasa, नदीम् river, पिबन् drinking, चरति: goes about, षष्टिः sixty, शतसहस्राणि: hundred thousand, प्लवङ्गमाः Vanaras, अस्यबलम् his army force.

Summary

"He who is stationed there on the shore like a second sea fluttering the division of army and terrifying is known as Vinata. He is a leader who goes about drinking the waters of the Parnasa, the best among the rivers. He has a sixty hundred thousand army force of Vanaras under him."

पदच्छेदः

यस्तुयद् (१.१)–तु (अव्ययः)
भीमांभीम (२.१)
प्रवल्गन्तींप्रवल्गत् (√प्र-वल्ग् + शतृ, २.१)
चमूंचमू (२.१)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
शोभयन्शोभयत् (√शोभय् + शतृ, १.१)
स्थितांस्थित (√स्था + क्त, २.१)
तीरेतीर (७.१)
समुद्रस्यसमुद्र (६.१)
द्वितीयद्वितीय (१.१)
इवइव (अव्ययः)
सागरःसागर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु भी मांप्र ल्ग न्तीं
मूं तिष्ठति शो यन्
स्थि तां ती रे मु द्रस्य
द्वि ती सा रः