६.१८.३६

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ।
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः ॥

पदच्छेदः

तत्रैतेतत्र (अव्ययः)–एतद् (१.३)
कपिलाःकपिल (१.३)
श्वेतास्ताम्रास्याश्वेत (१.३)–ताम्र–आस्य (१.३)
मधुपिङ्गलाःमधु–पिङ्गल (१.३)
निवसन्त्युत्तमगिरौनिवसन्ति (√नि-वस् लट् प्र.पु. बहु.)–उत्तम–गिरि (७.१)
तीक्ष्णदंष्ट्रानखायुधाःतीक्ष्ण–दंष्ट्र–नखायुध (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रै तेपि लाः श्वे ता
स्ता म्रा स्याधु पिङ्ग लाः
नि न्त्युत्तगि रौ
तीक्ष्ण दं ष्ट्रा खायु धाः