६.१८.३८

सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः ।
महापर्वतसंकाशा महाजीमूतनिस्वनाः ॥

पदच्छेदः

सुदीर्घाञ्चितलाङ्गूलासु (अव्ययः)–दीर्घ–आञ्चित (√आ-अञ्च् + क्त)–लाङ्गूल (१.३)
मत्तमातंगसंनिभाःमत्त (√मद् + क्त)–मातंग–संनिभ (१.३)
महापर्वतसंकाशामहत्–पर्वत–संकाश (१.३)
महाजीमूतनिस्वनाःमहत्–जीमूत–निस्वन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु दी र्घाञ्चि ला ङ्गू ला
त्त मा तं संनि भाः
हार्व सं का शा
हा जी मू निस्व नाः