६.१९.२१

यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।
स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ॥

पदच्छेदः

यस्ययद् (६.१)
मृत्योर्मृत्यु (६.१)
इवइव (अव्ययः)
क्रोधःक्रोध (१.१)
शक्रस्येवशक्र (६.१)–इव (अव्ययः)
पराक्रमःपराक्रम (१.१)
तद् (१.१)
एषएतद् (१.१)
रामस्त्वांराम (१.१)–त्वद् (२.१)
योद्धुंयोद्धुम् (√युध् + तुमुन्)
राजन्राजन् (८.१)
समभिवर्ततेसमभिवर्तते (√समभि-वृत् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य मृ त्योरि क्रो धः
क्र स्ये राक्र मः
रा स्त्वां यो द्धुं
रान्सभिर्त ते