६.१९.८

यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ ।
सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ ॥

पदच्छेदः

यावेतावेतयोःयद् (१.२)–एतद् (१.२)–एतद् (६.२)
पार्श्वेपार्श्व (७.१)
स्थितौस्थित (√स्था + क्त, १.२)
पर्वतसंनिभौपर्वत–संनिभ (१.२)
सुमुखोसुमुख (१.१)
विमुखश्चैवविमुख (१.१)–च (अव्ययः)–एव (अव्ययः)
मृत्युपुत्रौमृत्यु–पुत्र (१.२)
पितुःपितृ (६.१)
समौसम (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या वे ता वे योः पा र्श्वे
स्थि तौर्व संनि भौ
सुमु खोविमु श्चै
मृत्यु पु त्रौपि तुः मौ