६.२.१४

विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ।
त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ॥

पदच्छेदः

विनष्टेविनष्ट (√वि-नश् + क्त, ७.१)
वावा (अव्ययः)
प्रनष्टेप्रनष्ट (√प्र-नश् + क्त, ७.१)
वावा (अव्ययः)
शोकःशोक (१.१)
सर्वार्थनाशनःसर्व–अर्थ–नाशन (१.१)
त्वंत्वद् (१.१)
तुतु (अव्ययः)
बुद्धिमतांबुद्धिमत् (६.३)
श्रेष्ठःश्रेष्ठ (१.१)
सर्वशास्त्रार्थकोविदःसर्व–शास्त्र–अर्थ–कोविद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ष्टे वाप्र ष्टे वा
शो कः र्वार्थ ना नः
त्वंतु बुद्धि तां श्रे ष्ठः
र्व शा स्त्रार्थ कोवि दः