६.२.१६

गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ।
वानरेषु समासक्तं न ते कार्यं विपत्स्यते ॥

पदच्छेदः

गृहीतधनुषोगृहीत (√ग्रह् + क्त)–धनुस् (६.१)
यस्तेयद् (१.१)–त्वद् (६.१)
तिष्ठेद्तिष्ठेत् (√स्था विधिलिङ् प्र.पु. एक.)
अभिमुखोअभिमुख (१.१)
रणेरण (७.१)
वानरेषुवानर (७.३)
समासक्तंसमासक्त (√समा-सञ्ज् + क्त, १.१)
(अव्ययः)
तेत्वद् (६.१)
कार्यंकार्य (१.१)
विपत्स्यतेविपत्स्यते (√वि-पद् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गृ हीनु षो स्ते
ति ष्ठेभिमु खो णे
वा रेषु मा क्तं
ते का र्यंवित्स्य ते