६.२.१७

अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम् ।
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ॥

पदच्छेदः

अचिराद्अचिर (५.१)
द्रक्ष्यसेद्रक्ष्यसे (√दृश् लृट् म.पु. )
सीतांसीता (२.१)
तीर्त्वातीर्त्वा (√तृ + क्त्वा)
सागरम्सागर (२.१)
अक्षयम्अक्षय (२.१)
तद्तद् (१.१)
अलंअलम् (अव्ययः)
शोकम्शोक (२.१)
आलम्ब्यआलम्ब्य (√आ-लम्ब् + ल्यप्)
क्रोधम्क्रोध (२.१)
आलम्बआलम्ब (√आ-लम्ब् लोट् म.पु. )
भूपतेभूपति (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चि रा द्द्रक्ष्य से सी तां
ती र्त्वा साक्ष यम्
लं शो माम्ब्य
क्रो माम्ब भू ते