६.२.२०

तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।
कथंचित्परिपश्यामस्ते वयं वरुणालयम् ॥

पदच्छेदः

तान्तद् (२.३)
अरीन्अरि (२.३)
विधमिष्यन्तिविधमिष्यन्ति (√वि-धम् लृट् प्र.पु. बहु.)
शिलापादपवृष्टिभिःशिला–पादप–वृष्टि (३.३)
कथंचित्कथंचिद् (अव्ययः)
परिपश्यामस्तेपरिपश्यामः (√परि-दृश् लट् उ.पु. द्वि.)–तद् (१.३)
वयंमद् (१.३)
वरुणालयम्वरुणालय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता रीन्वि मि ष्यन्ति
शि ला पा वृष्टि भिः
थं चित्परि श्या
स्ते यंरु णा यम्