६.२१.२९

दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम् ।
श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे ॥

M N Dutt

But I can not enumerate the rest, ten koțis of heroic monkeys-all sons of deities—burning for battle.

पदच्छेदः

दशवानरकोट्यश्चदशन्–वानर–कोटि (१.३)–च (अव्ययः)
शूराणांशूर (६.३)
युद्धकाङ्क्षिणाम्युद्ध–काङ्क्षिन् (६.३)
श्रीमतांश्रीमत् (६.३)
देवपुत्राणांदेव–पुत्र (६.३)
शेषान्नाख्यातुम्शेष (२.३)–न (अव्ययः)–आख्यातुम् (√आ-ख्या + तुमुन्)
उत्सहेउत्सहे (√उत्-सह् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा को ट्यश्च
शू रा णां युद्ध काङ्क्षि णाम्
श्री तां दे पु त्रा णां
शे षा न्ना ख्यातु मुत्स हे