६.२३.१

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् ।
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥

पदच्छेदः

सातद् (१.१)
सीतासीता (१.१)
तच्छिरोतद् (२.१)–शिरस् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तच्चतद् (२.१)–च (अव्ययः)
कार्मुकम्कार्मुक (२.१)
उत्तमम्उत्तम (२.१)
सुग्रीवप्रतिसंसर्गम्सुग्रीव–प्रतिसंसर्ग (२.१)
आख्यातंआख्यात (√आ-ख्या + क्त, २.१)
(अव्ययः)
हनूमताहनुमन्त् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा सी ताच्छि रो दृ ष्ट्वा
च्च कार्मु मुत्त मम्
सु ग्रीप्रति संर्ग
मा ख्या तं नू ता