६.२२.४३

स विद्युज्जिह्वेन सहैव तच्छिरो; धनुश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुतां यशस्विनीं; ततोऽब्रवीत्तां भव मे वशानुगा ॥

M N Dutt

When Vidyujjibha placed the head of that man, Ravana poured the bow on earth. Then he spoke to illustrious Sītā, the daughter of king Videha to submit to his desire.

पदच्छेदः

तद् (१.१)
विद्युज्जिह्वेनविद्युज्जिह्व (३.१)
सहैवसह (अव्ययः)–एव (अव्ययः)
तच्छिरोतद् (२.१)–शिरस् (२.१)
धनुश्चधनुस् (२.१)–च (अव्ययः)
भूमौभूमि (७.१)
विनिकीर्यविनिकीर्य (√विनि-कृ + ल्यप्)
रावणःरावण (१.१)
विदेहराजस्यविदेह–राज (६.१)
सुतांसुता (२.१)
यशस्विनींयशस्विन् (२.१)
ततोततस् (अव्ययः)
ऽब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तांतद् (२.१)
भवभव (√भू लोट् म.पु. )
मेमद् (६.१)
वशानुगावश–अनुग (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
वि द्यु ज्जि ह्वे हैच्छि रो
नुश्च भू मौविनि कीर्य रा णः
वि दे रास्यसु तांस्वि नीं
तोऽब्र वी त्तां मे शानु गा