६.२३.३०

श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥

पदच्छेदः

श्रुतंश्रुत (√श्रु + क्त, १.१)
मयामद् (३.१)
वेदविदांवेद–विद् (६.३)
ब्राह्मणानांब्राह्मण (६.३)
पितुर्पितृ (६.१)
गृहेगृह (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु तं या वेवि दां
ब्राह्म णा नांपि तुर्गृ हे
या सां स्त्री णांप्रि यो र्ता
ता सां लो का हो याः