६.२४.११

हन्ता परबलौघानामचिन्त्यबलपौरुषः ।
न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः ॥

पदच्छेदः

हन्ताहन्तृ (१.१)
परबलौघानाम्पर–बल–ओघ (६.३)
अचिन्त्यबलपौरुषःअचिन्त्य–बल–पौरुष (१.१)
(अव्ययः)
हतोहत (√हन् + क्त, १.१)
राघवःराघव (१.१)
श्रीमान्श्रीमत् (१.१)
सीतेसीता (८.१)
शत्रुनिबर्हणःशत्रु–निबर्हण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ता लौ घा ना
चिन्त्य पौरु षः
तो रा वः श्री मा
न्सी तेत्रुनिर्ह णः