६.२४.९

दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् ।
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥

पदच्छेदः

दीर्घवृत्तभुजःदीर्घ–वृत्त–भुज (१.१)
श्रीमान्महोरस्कःश्रीमत् (१.१)–महत्–उरस्क (१.१)
प्रतापवान्प्रतापवत् (१.१)
धन्वीधन्विन् (१.१)
संहननोपेतोसंहनन–उपेत (√उप-इ + क्त, १.१)
धर्मात्माधर्म–आत्मन् (१.१)
भुविभू (७.१)
विश्रुतःविश्रुत (√वि-श्रु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दीर्घ वृत्तभु जः श्री मा
न्म हो स्कःप्र ता वान्
न्वी सं नो पे तो
र्मा त्माभुवि विश्रु तः