६.२६.३३

इदं वचस्तत्र निगद्य माल्यव;न्परीक्ष्य रक्षोऽधिपतेर्मनः पुनः ।
अनुत्तमेषूत्तमपौरुषो बली; बभूव तूष्णीं समवेक्ष्य रावणम् ॥

M N Dutt

Having said this to that vile one, and known the intention of the lord of Rākşasa, that strong Mālyavān, of exceeding prowess, became silent, eying Ravana.

पदच्छेदः

इदंइदम् (२.१)
वचस्तत्रवचस् (२.१)–तत्र (अव्ययः)
निगद्यनिगद्य (√नि-गद् + ल्यप्)
माल्यवान्माल्यवन्त् (१.१)
परीक्ष्यपरीक्ष्य (√परि-ईक्ष् + ल्यप्)
रक्षोऽधिपतेर्रक्षस्–अधिपति (६.१)
मनःमनस् (२.१)
पुनःपुनर् (अव्ययः)
अनुत्तमेषूत्तमपौरुषोअनुत्तम (७.३)–उत्तम–पौरुष (१.१)
बलीबलिन् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
तूष्णींतूष्णीम् (अव्ययः)
समवेक्ष्यसमवेक्ष्य (√समव-ईक्ष् + ल्यप्)
रावणम्रावण (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
दं स्तत्रनिद्य माल्य
न्प रीक्ष्य क्षोऽधि तेर्म नःपु नः
नुत्त मे षूत्त पौरु षो ली
भू तू ष्णीं वेक्ष्य रा णम्