६.२८.१

नरवानरराजौ तौ स च वायुसुतः कपिः ।
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥

पदच्छेदः

नरवानरराजौनर–वानर–राज (१.२)
तौतद् (१.२)
तद् (१.१)
(अव्ययः)
वायुसुतःवायुसुत (१.१)
कपिःकपि (१.१)
जाम्बवान्जाम्बवन्त् (१.१)
ऋक्षराजश्चऋक्ष–राज (१.१)–च (अव्ययः)
राक्षसश्चराक्षस (१.१)–च (अव्ययः)
विभीषणःविभीषण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा रा जौ तौ
वायुसु तः पिः
जाम्ब वा नृक्ष राश्च
राक्षश्चवि भी णः