६.२९.१३

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ।
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥

अन्वयः

तेतु and they, अदीर्घेण short, कालेन time, सर्वतः all, गिरिम् mountain, आरुह्य ascended, तस्य its, शिखरे peak, खे sky, विषक्तामिव like a closely clinging, पुरीम् city, ददृशुः saw.

Summary

All of them in no time ascended the mountain peak and saw the city of Lanka which was as if clinging closely to the sky and hanging.

पदच्छेदः

तेतद् (१.३)
त्वदीर्घेणतु (अव्ययः)–अदीर्घ (३.१)
कालेनकाल (३.१)
गिरिम्गिरि (२.१)
आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
सर्वतःसर्वतस् (अव्ययः)
ददृशुःददृशुः (√दृश् लिट् प्र.पु. बहु.)
शिखरेशिखर (७.१)
तस्यतद् (६.१)
विषक्ताम्विषक्त (√वि-सञ्ज् + क्त, २.१)
इवइव (अव्ययः)
खे (७.१)
पुरीम्पुरी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेत्व दी र्घे का ले
गिरि मा रुह्यर्व तः
दृ शुःशि रेस्य
वि क्तामि खेपु रीम्