६.३०.१८

शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् ।
समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ॥

पदच्छेदः

शिखरंशिखर (१.१)
तुतु (अव्ययः)
त्रिकूटस्यत्रिकूट (६.१)
प्रांशुप्रांशु (१.१)
चैकं (अव्ययः)–एक (१.१)
दिविस्पृशम्दिविस्पृश (१.१)
समन्तात्समन्तात् (अव्ययः)
पुष्पसंछन्नंपुष्प–संछन्न (√सम्-छद् + क्त, १.१)
महारजतसंनिभम्महारजत–संनिभ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शि रं तुत्रि कूस्य
प्रांशु चै कंदि विस्पृ शम्
न्ता त्पुष्प सं न्नं
हा संनि भम्