६.३०.२५

तां समृद्धां समृद्धार्थो लक्ष्मीवाँल्लक्ष्मणाग्रजः ।
रावणस्य पुरीं रामो ददर्श सह वानरैः ॥

पदच्छेदः

तांतद् (२.१)
समृद्धांसमृद्ध (√सम्-ऋध् + क्त, २.१)
समृद्धार्थोसमृद्ध (√सम्-ऋध् + क्त)–अर्थ (१.१)
लक्ष्मीवांल्लक्ष्मीवत् (१.१)
लक्ष्मणाग्रजःलक्ष्मण–अग्रज (१.१)
रावणस्यरावण (६.१)
पुरींपुरी (२.१)
रामोराम (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
सहसह (अव्ययः)
वानरैःवानर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां मृ द्धां मृ द्धा र्थो
क्ष्मी वा ल्लक्ष्म णाग्र जः
रास्यपु रीं रा मो
र्श वा रैः