६.३०.४

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः ।
तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः ॥

पदच्छेदः

हिन्तालैर्हिन्ताल (३.३)
अर्जुनैर्अर्जुन (३.३)
नीपैःनीप (३.३)
सप्तपर्णैश्चसप्तपर्ण (३.३)–च (अव्ययः)
पुष्पितैःपुष्पित (३.३)
तिलकैःतिलक (३.३)
कर्णिकारैश्चकर्णिकार (३.३)–च (अव्ययः)
पाटलैश्चपाटल (३.३)–च (अव्ययः)
समन्ततःसमन्ततः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि न्ता लैर्जु नै र्नी पैः
प्त र्णैश्च पुष्पि तैः
ति कैःर्णि का रैश्च
टा लैश्चन्त तः