६.३०.५

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः ।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥

पदच्छेदः

शुशुभेशुशुभे (√शुभ् लिट् प्र.पु. एक.)
पुष्पिताग्रैश्चपुष्पित–अग्र (३.३)–च (अव्ययः)
लतापरिगतैर्लता–परिगत (√परि-गम् + क्त, ३.३)
द्रुमैःद्रुम (३.३)
लङ्कालङ्का (१.१)
बहुविधैर्बहुविध (३.३)
दिव्यैर्दिव्य (३.३)
यथेन्द्रस्यामरावतीयथा (अव्ययः)–इन्द्र (६.१)–अमरावती (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शुशु भे पुष्पि ता ग्रैश्च
तारि तैर्द्रु मैः
ङ्काहुवि धै र्दि व्यै
र्य थे न्द्र स्या रा ती