६.३१.२५

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् ॥

पदच्छेदः

उत्तरद्वारम्उत्तर–द्वार (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
यत्रयत्र (अव्ययः)
तिष्ठतितिष्ठति (√स्था लट् प्र.पु. एक.)
रावणःरावण (१.१)
नान्यो (अव्ययः)–अन्य (१.१)
रामाद्धिराम (५.१)–हि (अव्ययः)
तद्तद् (२.१)
द्वारंद्वार (२.१)
समर्थःसमर्थ (१.१)
परिरक्षितुम्परिरक्षितुम् (√परि-रक्ष् + तुमुन्)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त द्वा मा साद्य
त्र तिष्ठति रा णः
ना न्यो रा माद्धि द्द्वा रं
र्थःरिक्षि तुम्