६.३१.२४

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः ।
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥

पदच्छेदः

लङ्काम्लङ्का (२.१)
उपनिविष्टश्चउपनिविष्ट (√उपनि-विश् + क्त, १.१)–च (अव्ययः)
रामोराम (१.१)
दशरथात्मजःदशरथ–आत्मज (१.१)
लक्ष्मणानुचरोलक्ष्मण–अनुचर (१.१)
वीरःवीर (१.१)
पुरींपुरी (२.१)
रावणपालिताम्रावण–पालित (√पालय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्कामुनि वि ष्टश्च
रा मो थात्म जः
क्ष्म णानु रो वी रः
पु रीं रा पालि ताम्