६.४.४२

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ।
उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥

पदच्छेदः

प्रसन्नाश्चप्रसन्न (√प्र-सद् + क्त, १.३)–च (अव्ययः)
दिशःदिश् (१.३)
सर्वासर्व (१.३)
विमलश्चविमल (१.१)–च (अव्ययः)
दिवाकरःदिवाकर (१.१)
उशनाउशनस् (१.१)
(अव्ययः)
प्रसन्नार्चिर्प्रसन्न (√प्र-सद् + क्त)–अर्चिस् (१.१)
अनुअनु (अव्ययः)
त्वांत्वद् (२.१)
भार्गवोभार्गव (१.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र न्नाश्चदि शः र्वा
विश्चदि वा रः
नाप्र न्नार्चि
नु त्वां भार्ग वो तः