६.४.४१

अनु वाति शुभो वायुः सेनां मृदुहितः सुखः ।
पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ॥

पदच्छेदः

अनुअनु (अव्ययः)
वातिवाति (√वा लट् प्र.पु. एक.)
शुभोशुभ (१.१)
वायुःवायु (१.१)
सेनांसेना (२.१)
मृदुहितःमृदु–हित (१.१)
सुखःसुख (१.१)
पूर्णवल्गुस्वराश्चेमेपूर्ण–वल्गु–स्वर (१.३)–च (अव्ययः)–इदम् (१.३)
प्रवदन्तिप्रवदन्ति (√प्र-वद् लट् प्र.पु. बहु.)
मृगद्विजाःमृग–द्विज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु वातिशु भो वा युः
से नांमृदुहि तःसु खः
पूर्ण ल्गुस्व रा श्चे मे
प्रन्तिमृद्वि जाः