६.४०.४६

अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।
गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात् ॥

अन्वयः

काकुत्स्थ Kakuthsa, अहम् I am, ते to you, प्रियः dear, सखा friend, बहिश्चरः outer, प्राणः breath, गरुत्मान् Garuthman, युवयोः you both, साह्यकारणात् in order to help, इह here, सम्प्राप्त reached.

M N Dutt

O Kakutstha, I am your friend-your life ranging externally-Garutmän. I am come hither for aiding you.

Summary

"O Kakuthsa! I am Garuthman, your dear friend and your outer breath. I reached here to help you."

पदच्छेदः

अहंमद् (१.१)
सखासखि (१.१)
तेत्वद् (६.१)
काकुत्स्थकाकुत्स्थ (८.१)
प्रियःप्रिय (१.१)
प्राणोप्राण (१.१)
बहिश्चरःबहिश्चर (१.१)
गरुत्मान्गरुत्मन्त् (१.१)
इहइह (अव्ययः)
सम्प्राप्तोसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
युवयोःत्वद् (६.२)
साह्यकारणात्साह्य–कारण (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हं खा ते का कुत्स्थ
प्रि यः प्रा णो हिश्च रः
रु त्मानि सं प्रा प्तो
यु योः साह्य का णात्