६.४६.२५

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।
शोणितौघमहातोयां यमसागरगामिनीम् ॥

पदच्छेदः

हतवीरौघवप्रांहत (√हन् + क्त)–वीर–ओघ–वप्र (२.१)
तुतु (अव्ययः)
भग्नायुधमहाद्रुमाम्भग्न (√भञ्ज् + क्त)–आयुध–महत्–द्रुम (२.१)
शोणितौघमहातोयांशोणित–ओघ–महत्–तोय (२.१)
यमसागरगामिनीम्यम–सागर–गामिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वी रौ प्रांतु
ग्नायु हाद्रु माम्
शोणि तौ हा तो यां
सा गामि नीम्