६.४६.२८

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ।
नदीमिव घनापाये हंससारससेविताम् ॥

पदच्छेदः

तांतद् (२.१)
कापुरुषदुस्तारांकापुरुष–दुस्तार (२.१)
युद्धभूमिमयींयुद्ध–भूमि–मय (२.१)
नदीम्नदी (२.१)
नदीम्नदी (२.१)
इवइव (अव्ययः)
घनापायेघन–अपाय (७.१)
हंससारससेविताम्हंस–सारस–सेवित (√सेव् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां कापुरु दु स्ता रां
युद्ध भूमि यीं दीम्
दीमि ना पा ये
हं सा सेवि ताम्