६.४६.२९

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥

पदच्छेदः

राक्षसाःराक्षस (१.३)
कपिमुख्याश्चकपि–मुख्य (१.३)–च (अव्ययः)
तेरुस्तांतेरुः (√तृ लिट् प्र.पु. बहु.)–तद् (२.१)
दुस्तरांदुस्तर (२.१)
नदीम्नदी (२.१)
यथायथा (अव्ययः)
पद्मरजोध्वस्तांपद्म–रजस्–ध्वस्त (√ध्वंस् + क्त, २.१)
नलिनींनलिनी (२.१)
गजयूथपाःगज–यूथप (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष साःपि मु ख्याश्च
ते रु स्तां दुस्त रां दीम्
थाद्म जो ध्व स्तां
लि नीं यू पाः