६.४७.५४

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥

अन्वयः

मे I, पञ्चशाखः five branches, एषः that way, समुद्यतः together, दक्षिणःबाहुः right arm, ते to you, देहात् body, चिरोषितम् for long, भूतात्मानम् subtle body, विधमिष्यति will expel.

M N Dutt

This my upraised right arm furnished with five fingers shall rod you of your soul long resident (in your body).

Summary

"I raised this right arm that way with five branches (five fingers) at you that will expel your subtle self (made up of the five subtle elements) from your body."

पदच्छेदः

एषएतद् (१.१)
मेमद् (६.१)
दक्षिणोदक्षिण (१.१)
बाहुःबाहु (१.१)
पञ्चशाखःपञ्चन्–शाखा (१.१)
समुद्यतःसमुद्यत (√समुत्-यम् + क्त, १.१)
विधमिष्यतिविधमिष्यति (√वि-धम् लृट् प्र.पु. एक.)
तेत्वद् (६.१)
देहाद्देह (५.१)
भूतात्मानंभूतात्मन् (२.१)
चिरोषितम्चिर–उषित (√वस् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मेक्षि णो बा हुः
ञ्च शा खः मुद्य तः
वि मिष्यति ते दे हा
द्भू ता त्मा नंचि रोषि तम्