६.४९.१२

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥

अन्वयः

एषः in that way, कुम्भकर्णः Kumbhakarna, प्रकृत्याः by nature, तेजस्वी energetic, महाबलः mighty, अन्येषाम् of others, राक्षसेन्द्राणाम् Rakshasa kings, बलम् strength, वरदानकृतम् is on account of boons.

M N Dutt

The exceedingly powerful Kumbhakarņa is mighty by nature: the strength of other redoubtable Rākşasas is owing to boons obtained by them.

Summary

"Kumbhakarna is by nature (by birth) energetic and mighty. The strength of other Rakshasas is on account of their boons received by them."

पदच्छेदः

प्रकृत्याप्रकृति (३.१)
ह्येषहि (अव्ययः)–एतद् (१.१)
तेजस्वीतेजस्विन् (१.१)
कुम्भकर्णोकुम्भकर्ण (१.१)
महाबलःमहत्–बल (१.१)
अन्येषांअन्य (६.३)
राक्षसेन्द्राणांराक्षस–इन्द्र (६.३)
वरदानकृतंवर–दान–कृत (√कृ + क्त, १.१)
बलम्बल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र कृ त्या ह्ये ते स्वी
कुम्भ र्णो हा लः
न्ये षां राक्ष से न्द्रा णां
दाकृ तं लम्