६.४९.१४

तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥

अन्वयः

तेषु that way, सम्भक्षयमाणेषु was eating every one, प्रजाः people, भयनिपीडिताः out of fear, शक्रम् Indra, शरणंयान्तिस्म sought refuge, तम् they, अर्धम् अपि all about, न्यवेदयन् represented.

M N Dutt

On these having been devoured, creatures, afflicted with affright consequent on those having been eaten up, sought the shelter of Sakra and told him what had happened.

Summary

"In that way when Kumbhakarna was devouring, out of fear all people sought the refuge of Indra and represented."

पदच्छेदः

तेषुतद् (७.३)
संभक्ष्यमाणेषुसंभक्ष्यमाण (√सम्-भक्ष् + शानच्, ७.३)
प्रजाप्रजा (१.३)
भयनिपीडिताःभय–निपीडित (√नि-पीडय् + क्त, १.३)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
शरणंशरण (२.१)
शक्रंशक्र (२.१)
तम्तद् (२.१)
अप्यर्थंअपि (अव्ययः)–अर्थ (२.१)
न्यवेदयन्न्यवेदयन् (√नि-वेदय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेषु संक्ष्य मा णेषु
प्र जानि पीडि ताः
या न्तिस्म णं क्रं
प्य र्थंन्य वे यन्