६.५३.३५

संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ।
कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥

अन्वयः

दग्धशैलोपमा resembling a charred mountain, महान् great, महावक्त्रः wide mouth, कुम्भकर्णः Kumbhakarna, रक्षांसि Rakshasas, सन्निपत्य reaching near, प्रहसन् laughing, अब्रवीत् spoke.

Summary

Thus spoke, Kumbhakarna who resembled a charred mountain, with wide mouth, reaching near the Rakshasas, laughing.

पदच्छेदः

संनिपत्यसंनिपत्य (√संनि-पत् + ल्यप्)
(अव्ययः)
रक्षांसिरक्षस् (२.३)
दग्धशैलोपमोदग्ध (√दह् + क्त)–शैल–उपम (१.१)
महान्महत् (१.१)
कुम्भकर्णोकुम्भकर्ण (१.१)
महावक्त्रःमहत्–वक्त्र (१.१)
प्रहसन्न्प्रहसत् (√प्र-हस् + शतृ, १.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

संनित्य क्षांसि
ग्ध शै लो मो हान्
कुम्भ र्णो हा क्त्रः
प्रन्निब्र वीत्