६.५५.९५

विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ।
स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥

अन्वयः

व्निध्यमन्दरसङ्काशम् like Vindhya or Mandara, काञ्चनाङ्गदभूषणम् adorned with gold armlets, वक्त्रात् from the mouth, रुधिरम् blood, स्रवन्तम् flowing, उथतितम् ejecting, वर्षामेघामिव like a rain cloud.

Summary

(Kumbhakarna) Adorned with gold armlets, blood flowing from his mouth was like a rain cloud showering from Vindhya or Mandara mountain.

पदच्छेदः

विन्ध्यमन्दरसंकाशंविन्ध्य–मन्दर–संकाश (२.१)
काञ्चनाङ्गदभूषणम्काञ्चन–अङ्गद–भूषण (२.१)
स्रवन्तंस्रवत् (√स्रु + शतृ, २.१)
रुधिरंरुधिर (२.१)
वक्त्राद्वक्त्र (५.१)
वर्षमेघम्वर्ष–मेघ (२.१)
इवोत्थितम्इव (अव्ययः)–उत्थित (√उत्-स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विन्ध्यन्द सं का शं
काञ्च नाङ्ग भू णम्
स्र न्तंरुधि रं क्त्रा
द्वर्ष मेमि वोत्थि तम्